समासविधायकसूत्रे (समासशास्त्रे) प्रथमानिर्दिष्टस्य संज्ञा भवति-
(A)
समाससंज्ञा
(B)
वृद्धिसंज्ञा
(C)
प्रत्याहारसंज्ञा
(D)
उपसर्जनसंज्ञा
Q.103
शाकप्रति, ग्रामगमी, हरिस्त्रातः, चोरभयम् इति समस्तपदानां प्रत्येकं घटकसूत्रं क्रमेण चिनुत-
a. सुप्प्रतिना मात्रार्थे
b. पञ्चमी भयेन
c. कर्त्तृकरणे कृता बहुलम्
d. गम्यादीनामुपसंख्यानम्
निम्नलिखितविकल्पेषु समुचितं उत्तरं चिनुत-
(A)
a, d, c, b
(B)
a, d, b, c
(C)
a, b, d, c
(D)
a, c, b, d
Q.104
चतुर्थीतत्पुरुषघटितपदानि चिनुत-
a. चौरभयम्
b. गोहितम्
c. यूपदारु
d. कर्मकुशल:
निम्नलिखितविकल्पेषु समुचितं विकल्पं चिनुत-
(A)
a, d केवलम्
(B)
a, b केवलम्
(C)
a, c केवलम्
(D)
b, c केवलम्
Q.105
कर्मसंज्ञाविधायकं सूत्रमस्ति-
(A)
कर्मणि द्वितीया
(B)
तथायुक्तं चानीप्सितम्
(C)
कर्तृकरणयोस्तृतीया
(D)
अनुलक्षणे
Q.106
“अकथितं च” अधिशीङ्स्थासां कर्म, उपान्वध्याङ्वसः, कर्तुरीप्सिततमं कर्म, इत्येतेषां सूत्राणाम् उदाहरणानि-
a. उपवसति
b. गां दोग्धि पयः
c. अधितिष्ठति वैकुण्ठं हरिः
d. हरिं भजति
सूत्रानुसारम् उदाहरणानाम् उचितं क्रमं चिनुत-
(A)
b, c, a, d
(B)
b, c, d, a
(C)
b, a, d, c
(D)
b, d, a, c
Q.107
उपपदविभक्तेः उदाहरणं नास्ति-
a. हरये नमः
b. कृष्णम् अभितः
c. वृक्षात् पत्रं पतति
d. पुत्रेण सह गच्छति
e. रामेण बाणेन हतः बाली
निम्नलिखितषु विकल्पेषु समुचितं विकल्पं चिनुत-
(A)
a, b केवलम्
(B)
b, c केवलम्
(C)
c, e केवलम्
(D)
d, e केवलम्
Q.108
प्रथमां तालिकां द्वितीयाया तालिकया मेलयत-
| तालिका - I | तालिका - II |
| :— | :— |
| a. आख्यातोपयोगे | I. गोषु दुह्यमानासु गतः |
| b. जनिकर्तुः प्रकृति | II. चर्मणि द्वीपिनं हन्ति |
| c. यस्य च भावेन भावल्क्षणम् | III. हिमवतो गङ्गा प्रभवति |
| d. निमित्तकर्मयोगे | IV. उपाध्यायादधीते |
निम्नलिखितषु विकल्पेषु समुचितं विकल्पं चिनुत-
(A)
a-IV, b-III, c-I, d-II
(B)
a-IV, b-III, c-II, d-I
(C)
a-IV, b-II, c-III, d-I
(D)
a-IV, b-I, c-II, d-III
Q.109
शिखरिणीच्छन्दसि क्रमशो गणाः भवन्ति-
a. यगणः
b. नगणः
c. भगणः
d. सगणः
e. मगणः
निम्नलिखितषु समुचितं विकल्पं चिनुत-
(A)
a, b, d, c, e
(B)
a, e, d, b, c
(C)
a, e, b, d, c
(D)
e, c, d, b, a
Q.110
वृत्तं भवति-
a. समम्
b. अर्धसमम्
c. अर्धार्धसमम्
d. विषमम्
निम्नलिखितषु समुचितं विकल्पं चिनुत-
(A)
a, b, c केवलम्
(B)
a, b, d केवलम्
(C)
a, c, d केवलम्
(D)
b, c, d केवलम्
Q.111
प्रथमां तालिकां द्वितीयाया तालिकया सह मेलयत-
| तालिका - I | तालिका - II |
| :— | :— |
| a. गोविन्दं प्रणमोत्तमाङ्ग ! रसने ! —- | I. मालिनी |
| b. करालस्य भ्रष्टे ननु शिखरिणी— | II. मन्दाक्रान्ता |
| c. मृगमदकृतचर्चा पीतकौशेयवासा | III. शार्दूलविक्रीडितम् |
| d. प्रेमालापैः प्रियवितरणैः प्रीणितालिङ्ग— | IV. शिखरिणी |
निम्नलिखितषु समुचितं विकल्पं चिनुत-
(A)
a-III, b-IV, c-I, d-II
(B)
a-III, b-IV, c-II, d-I
(C)
a-III, b-II, c-IV, d-I
(D)
a-III, b-I, c-IV, d-II
Q.112
शब्दार्थयोः अस्थिराः शोभातिशायिनः धर्माः-
(A)
रसाः
(B)
गुणाः
(C)
अलङ्काराः
(D)
वृत्तयः
Q.113
उत्प्रेक्षालङ्कारसन्दर्भे उत्प्रेक्ष्यवस्तूनां समुचितं क्रमं साहित्यदर्पणानुसारं चिनुत-
a. क्रिया
b. द्रव्यम्
c. गुणः
d. जातिः
निम्नलिखितषु समुचितं विकल्पं चिनुत-
(A)
d, c, b, a
(B)
d, c, a, b
(C)
d, b, a, c
(D)
a, c, d, b
Q.114
महाभारतसम्बद्धवैशिष्ट्यानि चिनुत-
a. भगवद्गीता
b. चत्वारिंशत्साहस्रीसंहिता
c. चतुर्विंशतिसाहस्रीसंहिता
d. शतसाहस्रीसंहिता
निम्नलिखितषु समुचितं विकल्पं चिनुत-
(A)
a, b केवलम्
(B)
b, c केवलम्
(C)
a, c केवलम्
(D)
a, d केवलम्
Q.115
प्रथमां तालिकां द्वितीयाया तालिकया सह मेलयत-
| तालिका - I | तालिका - II |
| :— | :— |
| a. श्री हर्ष: | I. प्रतिज्ञायौगन्धरायणम् |
| b. भास: | II. विक्रमोर्वशीयम् |
| c. कालिदास: | III. उत्तररामचरितम् |
| d. भवभूति: | IV. नैषधीयचरितम् |
निम्नलिखितषु समुचितं विकल्पं चिनुत-
(A)
a-IV, b-I, c-III, d-II
(B)
a-III, b-II, c-I, d-IV
(C)
a-III, b-II, c-IV, d-I
(D)
a-IV, b-I, c-II, d-III
Q.116
प्रथमां तालिकां द्वितीयाया तालिकया सह मेलयत-
| तालिका - I | तालिका - II |
| :— | :— |
| a. वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये। | I. मालविकाग्निमित्रम् |
| b. यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलताम् | II. कुमारसम्भवम् |
| c. त्रिशुद्धा क्रिया कस्यचित्प्राणसंस्था। | III. अभिज्ञानशाकुन्तलम् |
| d. अस्त्युत्तरस्यां दिशि देवतात्मा | IV. रघुवंशमहाकाव्यम् |
निम्नलिखितषु समुचितं विकल्पं चिनुत-
(A)
a-IV, b-III, c-II, d-I
(B)
a-I, b-II, c-III, d-IV
(C)
a-IV, b-III, c-I, d-II
(D)
a-II, b-IV, c-I, d-III
Q.117
महाकविकालिदासस्य मेघदूतं कति भागेषु विभक्तम्?
(A)
भागद्वये
(B)
भागत्रये
(C)
भागचतुष्टये
(D)
भागपञ्चके
Q.118
निम्नलिखितवाक्येषु शुद्धं वाक्यं किम्?
(A)
प्रत्येके छात्रे गरिमा अस्ति।
(B)
प्रत्येकाय छात्राय पुस्तकं ददाति।
(C)
प्रत्येकं छात्रं पाठयति।
(D)
प्रत्येकः छात्रोऽस्ति।
Q.119
यस्य चतुर्षु पादेषु क्रमशः तगणः, तगणः, जगणः, गुरुद्वयञ्च भवति, तच्छन्दः-
(A)
उपेन्द्रवज्रा
(B)
अनुष्टुप्
(C)
इन्द्रवज्रा
(D)
उपजातिः
Q.120
शुद्ध वाक्यानि चिनुत-
a. रामाय स्वाहा।
b. लक्ष्मणं नमः।
c. ग्राममुभयतो वनम्।
d. पुत्रस्य साकं पिता धावति।
e. माता पुत्रे स्निह्यति।
निम्नलिखितविकल्पेषु समुचितं विकल्पं चिनुत-